About us
SRI SITARAM VAIDIC MAHAVIDYALAYA was established in 1948 by His Holiness Sri Sri Sitaramdas Omkarnath Dev. SRI SITARAM VAIDIC MAHAVIDYALAYA used to impart instructions in courses prescribed by Vangiya Samskrita Siksha Parishad leading to the title of Kavyatirtha etc.
On 20.03.1997 Rashtriya Sanskrit Sansthan was pleased to declare a wing of the Institution as an Adarsha Sanskrit Mahavidyalaya under the relevant scheme of the Ministry, paving the path, thereby, for emergence of a strong centre of excellence of Indological studies in Kolkata.
In 2001 the Sashi Parisat of Rashtriya Sanskrit Sansthan decided to take a decision to convert the Institution into a Full-fleged Kendriya Vidyapeeth under Rashtriya Sanskrit Sansthan, Government of India (vide letter no.37011/98-99/Admn/415/473 dated 10.06.2001).
The State Government i.e. Govt. of West Bengal also gave a 'No Objection Certificate' in this regard. In 2002, the Rashtriya Sanskrit Sansthan was declared as "Deemed-to-be-University" and the existing Kendriya Vidyapeeth became campuses of Rashtriya Sanskrit Sansthan.
A fresh move to upgrade the Institution and make it a Campus of Rashtriya Sanskrit Sansthan started in the light of new rules and regulations. In the new effort the duly filled up proforma with detailed enclosures were submitted to Ministry of HRD and fees for the inspection visit of UGC was submitted to UGC. With this conversion the College will become the Calcutta Campus of Rashtriya Sanskrit Sansthan.
प्रांशुपालचिन्तनम्
न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ।नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ।।
सृष्टिक्रमोऽयं परमब्रह्मणः साक्षात्कृपया प्रचलमानः । तत्र स्वस्वकर्मनिरतो मानवः अहर्निशं चरति । तच्च चरणमपि स्वाचरणरतक्रियाकलापैः वैचित्र्यपथमधिदृग्गोचरीभवति । तस्य वैचित्र्यचरित्रचित्रितस्यार्जवकरणार्थमेव ऋषिपरम्परायाः वैशिष्ट्यं प्ररोहति । तच्च कर्म भौतिकम् आध्यात्मिकम् । तस्यैवापरं नाम स्थूलं सूक्ष्मञ्च । स्थूलं यच्च कर्म तत्तु केवलं शरीरमेव पुष्णाति । परन्तु सूक्ष्मं तु मनोबुद्धिचित्ताहंकारात्मतत्त्वं प्रति गच्छत् परमपुरुषार्थं मोक्षं प्रति प्रेरयति । तस्मिन्नेव प्रकल्पे भगवतोऽशांशरूपेण भारतराष्ट्रस्य बङ्गभूमौ 1008 श्रीश्रीसीतारामदासओंकारनाथमहाभागानां जन्म जातम् । ते परमतपस्विनः आविश्वं पावयन्तः निरन्तरं मठमन्दिरदीक्षाशिक्षाप्रतिष्ठानिरताः पृथिवीजलतेजोवाय्वाकाशादिसत्त्वांशसेवनतत्पराः भ्रमणकाल एव एकं स्थानं दृष्ट्वा तत्रैव एकम् इष्टिकाखण्डं हस्तेन नीत्वा उद्घोषणं कृतवन्तः यदत्र संस्कृतविश्वविद्यालयस्य स्थापना भविष्यति । तस्यैव वचनस्य भगवत्कृपया यथार्थस्वरूपं तस्यानुगुणांशविशिष्टाः प्रोफेसर् रमारञ्जनमुखार्जीमहोदयाः तेषां सहयोगिनश्च दत्तवन्तः । सौभाग्यात् तस्मिन्नेव क्रमे 1997 ख्रीष्टाब्दे एकस्माद् लघुस्थानाद् भगवतः श्रीश्रीसीतारामदासओंकारनाथनाम्नैव तस्य महाविद्यालयस्य भौतिकं स्वरूपं प्रारब्धम् । दर्शनदृष्ट्यापि शरीरं त्रिविधं परिकल्पितमस्ति । स्थूलशरीरम् , सूक्ष्मशरीरम् , कारणशरीरञ्च । पञ्चीकृतमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् । जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति इति । पुनः अपञ्चीकृतमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् । कारणशरीरञ्च अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाज्ञानं निर्विकल्परूपं यदस्ति तत् कारणमिति । एवं प्रकारेण महाविद्यालयस्य परिकल्पकाः ये स्वामिनः ते सूक्ष्मं रूपं निर्धारितं चक्रुः । तदित्थम् -
- भूतले संस्कृतभाषायाः प्रचारो भवतु ।
- संस्कृतं नहि भाषामात्रमपितु एका भारतीया संस्कृतिः ।
- संस्कृतशास्त्राणां संरक्षणमवश्यमेव करणीयम् ।
- संस्कृतशास्त्रेषु दार्शनिकानि यानि शास्त्राणि तान्येव जीवनस्य मूलभूतानि ।
- संस्कृतकथनमेव पुण्यावहम् ।
- संस्कृतभाषायां देवदेवीब्रह्मपरमब्रह्मादीनां सर्वविधचर्चा कृतास्ति ।
- संस्कृतशास्त्रेषु चतुष्षष्ठिकलाः राजन्ते ।
तदनुगुणचलने जीवनं स्वस्थं शान्तिप्रदञ्च भवति । तत्सूक्ष्मं शरीरमधिकृत्यैव महाविद्यालयोऽयं स्वकीयं भौतिकमाध्यात्मिकञ्चोद्देश्यमादाय प्रवर्तितः । तत्स्वरूपमित्थं विवेचयितुं शक्यते यथा -
- भारते भारतीयाः स्वसंस्कृतिसभ्यतां प्रति प्रवृत्ताः भवेयुः ।
- ज्ञाननाम्ना नहि केवलं शब्दकृतमेव ज्ञानं स्यादपितु संस्कारैरोतप्रोतं स्यात् ।
- व्यवहारस्य परिदर्शनं वाण्या एव स्पष्टं भवेत् ।
- शास्त्रैः साकं नीतिरणनीतिराजनीतिनिपुणाः भवेयुः ।
- लौकिकज्ञानेन साकं सामाजिकज्ञानकुशलिनोऽपि भवेयुः ।
- महाविद्यालयीयशिक्षा अनन्तरं एकः स्थिरचित्ताचारविचारविशिष्टः मनुष्यः समाजं प्रति गच्छेदिति ।
- प्राच्यज्ञानेन साकम् आधुनिकज्ञानपरिपूर्णं वातावरणप्रदानम् ।
- सर्वभावैक्यप्रतिपादनपूर्वकं चतुर्विधपुरुषार्थसाधनमेव जीवनलक्ष्यम् ।
- वयममृतस्य पुत्राः, उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत इत्यादिवचनान्येव ध्येयवाक्यानि ।
- श्रेष्ठानां समादरभावना प्रतिपादनं तथा च जीवने जीविकायाः परिपालनम् ।
इत्यादीनि आदर्शभूतानि वाक्यान्यधिकृत्य महाविद्यालयोऽयं स्वमार्गे प्रवृत्तः । अतः परं भारतीयज्ञानपरम्परासम्पन्नाद् विश्वविद्यालयात् सम्बद्धतां समवाप्य विश्वविद्यालयीयनियमान् परिपालयन्तः निरन्तरं ऋषिमुनिभगवदादिष्टं शास्त्रवचनं प्रसारयन्तः सहस्त्रेभ्यो छात्रेभ्यो समाजिकेभ्यश्च सद्विद्यां प्रददाति । प्रतिवर्षं विश्वविद्यालयानुगुणं स्वानुगुणञ्च राष्ट्रियान्ताराष्ट्रियचर्च्चासत्रं, मासदिवससंस्कृतसप्ताहादिकं निर्वहन् निरन्तरमुन्नतिमार्गे प्रवर्तते । इयं व्यवस्था यथा भारतराष्ट्रे तथा नान्यत्र, यतो हि प्रतिदेशं जलवायुः भिन्नः, प्राकृतिकं वातावरणञ्च भिन्नम् । अतः पाश्चात्यविचाराक्रान्तानां तथा च पाश्चात्यानां भारतीयज्ञानविज्ञानपरम्परां प्रति प्रीतिः, अनुरक्तिः, स्वदेशं प्रति प्रेम यथा भवेत्तथा प्रयासः महाविद्यालयस्य । पाश्चात्याः अपि भारतीयसंस्कृतिं, संस्कृतशास्त्रं, भारतीयपरम्परां प्रति आकर्षिता अभवन् । यथा -
- Max Muller remarked "If I were to look over the whole world to find out the country most richly endowed with all the wealth, power, and beauty that nature can bestow in some parts a very paradise on earth, I should point to India. If I were asked under what sky the human mind has most fully developed some of its choicest gifts, has most deeply pondered on the greatest problems of life, and has found solutions of some of them which well deserve the attention even of those who have studied Plato and Kant, I should point to India. And if I were to ask myself from what literature we, here in Europe, we who have been nurtured almost exclusively on the thoughts of Greeks and Romans, and of one Semitic race, the Jewish, may draw that corrective which is most wanted in order to make our inner life more perfect, more comprehensive, more universal, in fact more truly human, a life, not for this life only, but a transfigured and eternal life again I should point to India."
- Similar observations were made by Arnold Toynbee - "It is already becoming clear that a chapter which had a Western beginning will have to have an Indian ending if it is not to end in the self-destruction of the human race. At this supremely dangerous moment in human history, the only way of salvation for mankind is the Indian way, Emperor Ashoka's and Mahatma Gandhi's principle of non-violence and Sri Ramakrishna's testimony to the harmony of religions. Here we have an attitude and spirit that can make it possible for the human race to grow together into a single family and, in the Atomic Age, this is the only alternative to destroying ourselves."
इत्थम् प्राचार्यः